शिव महिम्न स्तोत्र — अर्थ सहित
शिव महिम्न स्तोत्र गंधर्वराज पुष्पदंत की रचना माना जाता है। कथा है कि शिव-पूजा के फूल चुराने के कारण उनकी शक्ति चली गई, और फिर उन्होंने यह स्तोत्र गाकर शिव को प्रसन्न किया। इसमें शिव की अनंत महिमा, उनकी लीलाएँ और 'ॐ' का रहस्य सुंदर छंदों में है। सावन, सोमवार और महाशिवरात्रि पर इसका पाठ विशेष माना जाता है।
महिम्नः पारं ते परमविदुषो यद्यसदृशी स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः । अथावाच्यः सर्वः स्वमतिपरिणामावधि गृणन् ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥ १ ॥
अतीतः पन्थानं तव च महिमा वाङ्मनसयो- रतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि । स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥ २ ॥
मधुस्फीता वाचः परमममृतं निर्मितवत- स्तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् । मम त्वेतां वाणीं गुणकथनपुण्येन भवतः पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता ॥ ३ ॥
तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत् त्रयीवस्तु व्यस्तं तिसृषु गुणभिन्नासु तनुषु । अभव्यानामस्मिन् वरद रमणीयामरमणीं विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ॥ ४ ॥
किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति किमुपादान इति च । अतर्क्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः ॥ ५ ॥
अजन्मानो लोकाः किमवयववन्तोऽपि जगतां अधिष्ठातारं किं भवविधिरनादृत्य भवति । अनीशो वा कुर्याद्भुवनजनने कः परिकरो यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ॥ ६ ॥
त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च । रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥ ७ ॥
महोक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनः कपालं चेतीयत्तव वरद तन्त्रोपकरणम् । सुरास्तां तामृद्धिं दधति तु भवद्भ्रूप्रणिहितां न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥ ८ ॥
ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये । समस्तेऽप्येतस्मिन् पुरमथन तैर्विस्मित इव स्तुवन् जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ॥ ९ ॥
तवैश्वर्यं यत्नाद्यदुपरि विरिञ्चिर्हरिरधः परिच्छेत्तुं यातावनलमनलस्कन्धवपुषः । ततो भक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरिश यत् स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ॥ १० ॥
अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरं दशास्यो यद्बाहूनभृत रणकण्डूपरवशान् । शिरःपद्मश्रेणीरचितचरणाम्भोरुहबलेः स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम् ॥ ११ ॥
अमुष्य त्वत्सेवासमधिगतसारं भुजवनं बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः । अलभ्या पातालेऽप्यलसचलिताङ्गुष्ठशिरसि प्रतिष्ठा त्वय्यासीद्ध्रुवमुपचितो मुह्यति खलः ॥ १२ ॥
यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सती- मधश्चक्रे बाणः परिजनविधेयत्रिभुवनः । न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयो- र्न कस्या उन्नत्यै भवति शिरसस्त्वय्यवनतिः ॥ १३ ॥
अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा- विधेयस्यासीद्यस्त्रिनयन विषं संहृतवतः । स कल्माषः कण्ठे तव न कुरुते न श्रियमहो विकारोऽपि श्लाघ्यो भुवनभयभङ्गव्यसनिनः ॥ १४ ॥
असिद्धार्था नैव क्वचिदपि सदेवासुरनरे निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः । स पश्यन्नीश त्वामितरसुरसाधारणमभूत् स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः ॥ १५ ॥
मही पादाघाताद्व्रजति सहसा संशयपदं पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहगणम् । मुहुर्द्यौर्दौस्थ्यं यात्यनिभृतजटाताडिततटा जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥ १६ ॥
वियद्व्यापी तारागणगुणितफेनोद्गमरुचिः प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते । जगद्द्वीपाकारं जलधिवलयं तेन कृतमि- त्यनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ॥ १७ ॥
रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति । दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बरविधि- र्विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ॥ १८ ॥
हरिस्ते साहस्रं कमलबलिमाधाय पदयो- र्यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम् । गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥ १९ ॥
क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते । अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदानप्रतिभुवं श्रुतौ श्रद्धां बद्ध्वा दृढपरिकरः कर्मसु जनः ॥ २० ॥
क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृता- मृषीणामार्त्विज्यं शरणद सदस्याः सुरगणाः । क्रतुभ्रंशस्त्वत्तः क्रतुफलविधानव्यसनिनो ध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि मखाः ॥ २१ ॥
प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा । धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः ॥ २२ ॥
स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत् पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि । यदि स्त्रैणं देवी यमनिरत देहार्धघटना- दवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥ २३ ॥
श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचरा- श्चिताभस्मालेपः स्रगपि नृकरोटीपरिकरः । अमङ्गल्यं शीलं तव भवतु नामैवमखिलं तथापि स्मर्तॄणां वरद परमं मङ्गलमसि ॥ २४ ॥
मनः प्रत्यक्चित्ते सविधमवधायात्तमरुतः प्रहृष्यद्रोमाणः प्रमदसलिलोत्सङ्गितदृशः । यदालोक्याह्लादं ह्रद इव निमज्ज्यामृतमये दधत्यन्तस्तत्त्वं किमपि यमिनस्तत्किल भवान् ॥ २५ ॥
त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह- स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च । परिच्छिन्नामेवं त्वयि परिणता बिभ्रतु गिरं न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि ॥ २६ ॥
त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरा- नकाराद्यैर्वर्णैस्त्रिभिरभिदधत्तीर्णविकृति । तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदम् ॥ २७ ॥
भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहां- स्तथा भीमेशानाविति यदभिधानाष्टकमिदम् । अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि प्रियायास्मै धाम्ने प्रणिहितनमस्योऽस्मि भवते ॥ २८ ॥
नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमो नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः । नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो नमः सर्वस्मै ते तदिदमिति सर्वाय च नमः ॥ २९ ॥
बहलरजसे विश्वोत्पत्तौ भवाय नमो नमः प्रबलतमसे तत्संहारे हराय नमो नमः । जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ॥ ३० ॥
कृशपरिणति चेतः क्लेशवश्यं क्व चेदं क्व च तव गुणसीमोल्लङ्घिनी शश्वदृद्धिः । इति चकितममन्दीकृत्य मां भक्तिराधाद् वरद चरणयोस्ते वाक्यपुष्पोपहारम् ॥ ३१ ॥
असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे सुरतरुवरशाखा लेखनी पत्रमुर्वी । लिखति यदि गृहीत्वा शारदा सर्वकालं तदपि तव गुणानामीश पारं न याति ॥ ३२ ॥
असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौले- र्ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य । सकलगणवरिष्ठः पुष्पदन्ताभिधानो रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार ॥ ३३ ॥
अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत् पठति परमभक्त्या शुद्धचित्तः पुमान् यः । स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र प्रचुरतरधनायुः पुत्रवान् कीर्तिमांश्च ॥ ३४ ॥
महेशान्नापरो देवो महिम्नो नापरा स्तुतिः । अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् ॥ ३५ ॥
दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः । महिम्नस्तवपाठस्य कलां नार्हन्ति षोडशीम् ॥ ३६ ॥
कुसुमदशननामा सर्वगन्धर्वराजः शशिधरवरमौलेर्देवदेवस्य दासः । स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात् स्तवनमिदमकार्षीद्दिव्यदिव्यं महिम्नः ॥ ३७ ॥
सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं पठति यदि मनुष्यः प्राञ्जलिर्नान्यचेताः । व्रजति शिवसमीपं किन्नरैः स्तूयमानः स्तवनमिदममोघं पुष्पदन्तप्रणीतम् ॥ ३८ ॥
आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्वभाषितम् । अनौपम्यं मनोहारि सर्वमीश्वरवर्णनम् ॥ ३९ ॥
इत्येषा वाङ्मयी पूजा श्रीमच्छङ्करपादयोः । अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ॥ ४० ॥
तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर । यादृशोऽसि महादेव तादृशाय नमो नमः ॥ ४१ ॥
एककालं द्विकालं वा त्रिकालं यः पठेन्नरः । सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ ४२ ॥
श्रीपुष्पदन्तमुखपङ्कजनिर्गतेन स्तोत्रेण किल्बिषहरेण हरप्रियेण । कण्ठस्थितेन पठितेन समाहितेन सुप्रीणितो भवति भूतपतिर्महेशः ॥ ४३ ॥
अर्थ
पद 1
महिम्नः पारं ते परमविदुषो यद्यसदृशी स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः । अथावाच्यः सर्वः स्वमतिपरिणामावधि गृणन् ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥ १ ॥
हे हर, यदि आपकी महिमा का अंत न जानने वाले की स्तुति अधूरी है, तो ब्रह्मा आदि की वाणी भी आपके आगे थक जाती है। इसलिए जो कोई अपनी बुद्धि के अनुसार स्तुति करता है, वह दोषी नहीं; इसी नाते मेरा यह प्रयास भी क्षमा योग्य है।
पद 2
अतीतः पन्थानं तव च महिमा वाङ्मनसयो- रतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि । स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥ २ ॥
आपकी महिमा वाणी और मन की पहुँच से परे है; वेद भी चकित होकर 'यह नहीं, यह नहीं' कहकर ही आपका वर्णन करते हैं। ऐसे आपकी स्तुति कौन कर सकता है? पर आपके साकार रूप पर किसका मन और वाणी नहीं जाती?
पद 3
मधुस्फीता वाचः परमममृतं निर्मितवत- स्तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् । मम त्वेतां वाणीं गुणकथनपुण्येन भवतः पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता ॥ ३ ॥
हे ब्रह्म-स्वरूप, आपने ही मधुर वेद-वाणी रची है; तो देवगुरु बृहस्पति की वाणी भी आपको क्या चकित करेगी? हे त्रिपुरारि, मैंने तो बस आपके गुण गाकर अपनी वाणी को पवित्र करने के लिए यह स्तुति करने का निश्चय किया है।
पद 4
तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत् त्रयीवस्तु व्यस्तं तिसृषु गुणभिन्नासु तनुषु । अभव्यानामस्मिन् वरद रमणीयामरमणीं विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ॥ ४ ॥
हे वरदाता, आपका ऐश्वर्य ही संसार की रचना, रक्षा और प्रलय करता है, जिसे वेद तीन गुणों वाले तीन रूपों (ब्रह्मा, विष्णु, महेश) में बताते हैं। फिर भी कुछ मंदबुद्धि लोग इसका खंडन करने के लिए ऐसे तर्क गढ़ते हैं जो अज्ञानियों को अच्छे लगते हैं पर असल में व्यर्थ हैं।
पद 5
किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति किमुपादान इति च । अतर्क्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः ॥ ५ ॥
'सृष्टिकर्ता किस इच्छा से, किस शरीर से, किस साधन से, किस आधार पर और किस सामग्री से तीनों लोक रचता है?' — ऐसे कुतर्क आपके तर्क से परे ऐश्वर्य पर टिकते ही नहीं। फिर भी ये कुछ लोगों को वाचाल बनाकर संसार को भ्रम में डालते हैं।
पद 6
अजन्मानो लोकाः किमवयववन्तोऽपि जगतां अधिष्ठातारं किं भवविधिरनादृत्य भवति । अनीशो वा कुर्याद्भुवनजनने कः परिकरो यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ॥ ६ ॥
हे देवश्रेष्ठ, क्या अंगों वाले ये लोक बिना जन्म के हो सकते हैं? क्या कोई रचना बिना रचयिता के हो सकती है? यदि ईश्वर नहीं, तो संसार कौन और किस साधन से रचेगा? फिर भी मूर्ख लोग आपके बारे में संदेह करते हैं।
पद 7
त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च । रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥ ७ ॥
वेद, सांख्य, योग, पाशुपत और वैष्णव — ये अलग-अलग मार्ग हैं, और लोग कहते हैं 'यह श्रेष्ठ है, वह हितकर है'। रुचि के भेद से कोई सीधे, कोई टेढ़े रास्ते चलता है, पर जैसे सब नदियाँ समुद्र में मिलती हैं, वैसे ही सब मनुष्यों का एक लक्ष्य आप ही हैं।
पद 8
महोक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनः कपालं चेतीयत्तव वरद तन्त्रोपकरणम् । सुरास्तां तामृद्धिं दधति तु भवद्भ्रूप्रणिहितां न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥ ८ ॥
हे वरद, आपकी संपत्ति बस इतनी है — एक बूढ़ा बैल, खट्वांग, फरसा, मृगछाला, भस्म, साँप और खप्पर। फिर भी देवता जो वैभव भोगते हैं, वह आपकी भौंह के इशारे से मिला है; अपनी आत्मा में रमने वाले को विषयों की मृगतृष्णा नहीं भटकाती।
पद 9
ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये । समस्तेऽप्येतस्मिन् पुरमथन तैर्विस्मित इव स्तुवन् जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ॥ ९ ॥
कोई कहता है संसार नित्य है, कोई कहता है अनित्य, और कोई कहता है कुछ नित्य कुछ अनित्य। हे त्रिपुरारि, इन मतों से चकित होकर भी मैं आपकी स्तुति करने में लज्जित नहीं होता — मेरी यह वाचालता ही मेरा साहस है।
पद 10
तवैश्वर्यं यत्नाद्यदुपरि विरिञ्चिर्हरिरधः परिच्छेत्तुं यातावनलमनलस्कन्धवपुषः । ततो भक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरिश यत् स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ॥ १० ॥
जब आप अग्नि-स्तंभ बनकर प्रकट हुए, तब ब्रह्मा ऊपर और विष्णु नीचे आपका अंत खोजने गए, पर नहीं पा सके। फिर जब उन्होंने भक्ति और श्रद्धा से आपकी स्तुति की, तो आप स्वयं उनके सामने प्रकट हुए — हे गिरीश, आपकी सेवा क्या फल नहीं देती?
पद 11
अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरं दशास्यो यद्बाहूनभृत रणकण्डूपरवशान् । शिरःपद्मश्रेणीरचितचरणाम्भोरुहबलेः स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम् ॥ ११ ॥
हे त्रिपुरहर, दस मुख वाले रावण ने बिना प्रयास तीनों लोकों को शत्रु-रहित कर दिया और उसकी भुजाएँ युद्ध के लिए फड़कती रहीं। यह सब उस दृढ़ भक्ति का फल था जिसमें उसने अपने सिर-रूपी कमल काटकर आपके चरणों में चढ़ा दिए थे।
पद 12
अमुष्य त्वत्सेवासमधिगतसारं भुजवनं बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः । अलभ्या पातालेऽप्यलसचलिताङ्गुष्ठशिरसि प्रतिष्ठा त्वय्यासीद्ध्रुवमुपचितो मुह्यति खलः ॥ १२ ॥
आपकी सेवा से मिली शक्ति वाली भुजाओं से जब रावण ने आपके निवास कैलास को ही उठाना चाहा, तो आपने खेल-खेल में अँगूठे का सिरा दबाया और उसे पाताल में भी ठिकाना न मिला। सचमुच, अधिक शक्ति पाकर दुष्ट मोह में पड़ जाता है।
पद 13
यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सती- मधश्चक्रे बाणः परिजनविधेयत्रिभुवनः । न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयो- र्न कस्या उन्नत्यै भवति शिरसस्त्वय्यवनतिः ॥ १३ ॥
हे वरद, बाणासुर ने तीनों लोकों को अपने सेवकों जैसा वश में कर लिया और इंद्र के ऊँचे वैभव को भी नीचा कर दिया। आपके चरणों के उस सेवक के लिए यह आश्चर्य नहीं; आपके आगे सिर झुकाने से किसकी उन्नति नहीं होती?
पद 14
अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा- विधेयस्यासीद्यस्त्रिनयन विषं संहृतवतः । स कल्माषः कण्ठे तव न कुरुते न श्रियमहो विकारोऽपि श्लाघ्यो भुवनभयभङ्गव्यसनिनः ॥ १४ ॥
हे त्रिनेत्र, जब ब्रह्मांड के अचानक नाश से डरे देवता और असुर दया के पात्र बने, तब आपने विष पी लिया। उससे गले में जो नीला दाग पड़ा, वह भी आपकी शोभा ही बढ़ाता है; संसार का भय मिटाने वाले का दोष भी प्रशंसा योग्य होता है।
पद 15
असिद्धार्था नैव क्वचिदपि सदेवासुरनरे निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः । स पश्यन्नीश त्वामितरसुरसाधारणमभूत् स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः ॥ १५ ॥
जिस कामदेव के बाण देव, असुर और मनुष्यों पर कभी व्यर्थ नहीं गए, उसने आपको भी साधारण देवता समझा और भस्म होकर केवल स्मृति बनकर रह गया। हे ईश, संयमी पुरुषों का अपमान करना कभी हितकर नहीं।
पद 16
मही पादाघाताद्व्रजति सहसा संशयपदं पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहगणम् । मुहुर्द्यौर्दौस्थ्यं यात्यनिभृतजटाताडिततटा जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥ १६ ॥
जब आप संसार की रक्षा के लिए नृत्य करते हैं, तो पैरों की थाप से पृथ्वी डगमगाती है, घूमती भुजाओं से आकाश के ग्रह-नक्षत्र बिखरते हैं और खुली जटाओं की मार से स्वर्ग काँपता है। सचमुच, आपकी महिमा उलटी-सी लगती है।
पद 17
वियद्व्यापी तारागणगुणितफेनोद्गमरुचिः प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते । जगद्द्वीपाकारं जलधिवलयं तेन कृतमि- त्यनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ॥ १७ ॥
आकाश में फैली, तारों से झाग जैसी चमकती गंगा की धारा आपके सिर पर एक छोटी बूँद-सी दिखती है। उसी धारा ने पृथ्वी को समुद्र से घिरे द्वीपों का रूप दिया — इसी से आपके दिव्य शरीर की महिमा का अनुमान होता है।
पद 18
रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति । दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बरविधि- र्विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ॥ १८ ॥
त्रिपुर जलाने के लिए पृथ्वी रथ बनी, ब्रह्मा सारथी, मेरु पर्वत धनुष, सूर्य-चंद्र पहिए और विष्णु बाण। तिनके जैसे त्रिपुर को जलाने के लिए इतना आडंबर क्यों? प्रभु तो बस अपने सेवकों के साथ खेलते हैं, वे किसी साधन के अधीन नहीं।
पद 19
हरिस्ते साहस्रं कमलबलिमाधाय पदयो- र्यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम् । गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥ १९ ॥
विष्णु ने आपके चरणों में हज़ार कमल चढ़ाए; एक कम पड़ा तो उन्होंने अपना कमल जैसा नेत्र निकालकर चढ़ा दिया। हे त्रिपुरहर, वही उमड़ती भक्ति सुदर्शन चक्र बनकर तीनों लोकों की रक्षा के लिए सदा जागती है।
पद 20
क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते । अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदानप्रतिभुवं श्रुतौ श्रद्धां बद्ध्वा दृढपरिकरः कर्मसु जनः ॥ २० ॥
यज्ञ समाप्त हो जाने पर भी आप जागते रहते हैं और यज्ञ करने वालों को फल देते हैं; परमेश्वर की आराधना के बिना नष्ट हुआ कर्म फल कैसे देगा? इसलिए आपको फल का जमानतदार मानकर लोग वेदों में श्रद्धा रखकर दृढ़ता से कर्म करते हैं।
पद 21
क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृता- मृषीणामार्त्विज्यं शरणद सदस्याः सुरगणाः । क्रतुभ्रंशस्त्वत्तः क्रतुफलविधानव्यसनिनो ध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि मखाः ॥ २१ ॥
हे शरणदाता, यज्ञ-कर्म में कुशल दक्ष प्रजापति यजमान थे, ऋषि पुरोहित थे और देवता सभासद; फिर भी फल देने वाले आपसे ही उस यज्ञ का विनाश हुआ। सच है, श्रद्धा के बिना किया गया यज्ञ करने वाले के लिए ही हानिकारक बन जाता है।
पद 22
प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा । धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः ॥ २२ ॥
हे नाथ, जब प्रजापति ब्रह्मा मोह में पड़कर हिरण का रूप धरकर अपनी पुत्री के पीछे गए, तो आपने धनुष उठाकर बाण से उन्हें बींध दिया। आकाश में भागते, डरे हुए उस हिरण (मृगशिरा नक्षत्र) का पीछा आपका शिकारी रूप (आर्द्रा) आज भी नहीं छोड़ता।
पद 23
स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत् पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि । यदि स्त्रैणं देवी यमनिरत देहार्धघटना- दवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥ २३ ॥
हे त्रिपुरारि, पार्वती ने अपनी सुंदरता के भरोसे धनुष उठाए कामदेव को आपके सामने पल भर में तिनके की तरह जलते देखा। हे संयमी, फिर भी यदि वे आधा शरीर साझा होने के कारण आपको स्त्री के वश में मानें, तो बस यही कहना होगा कि युवतियाँ भोली होती हैं।
पद 24
श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचरा- श्चिताभस्मालेपः स्रगपि नृकरोटीपरिकरः । अमङ्गल्यं शीलं तव भवतु नामैवमखिलं तथापि स्मर्तॄणां वरद परमं मङ्गलमसि ॥ २४ ॥
हे कामदेव को जलाने वाले, आप श्मशान में विचरते हैं, भूत-प्रेत आपके साथी हैं, चिता की भस्म लगाते हैं और मुंडमाला पहनते हैं। आपका यह सब रूप अमंगल लगे तो लगे, पर हे वरद, जो आपको याद करते हैं उनके लिए आप परम मंगल हैं।
पद 25
मनः प्रत्यक्चित्ते सविधमवधायात्तमरुतः प्रहृष्यद्रोमाणः प्रमदसलिलोत्सङ्गितदृशः । यदालोक्याह्लादं ह्रद इव निमज्ज्यामृतमये दधत्यन्तस्तत्त्वं किमपि यमिनस्तत्किल भवान् ॥ २५ ॥
योगी साँस को रोककर मन को भीतर टिकाते हैं; उनके रोम खड़े हो जाते हैं और आँखों में आनंद के आँसू भर आते हैं। अमृत के सरोवर में डूबने जैसा जो अनोखा आनंद-तत्त्व वे भीतर अनुभव करते हैं, वह आप ही हैं।
पद 26
त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह- स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च । परिच्छिन्नामेवं त्वयि परिणता बिभ्रतु गिरं न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि ॥ २६ ॥
आप सूर्य हैं, चंद्रमा हैं, वायु हैं, अग्नि हैं, जल हैं, आकाश हैं, पृथ्वी हैं और आत्मा हैं — ज्ञानी लोग ऐसे सीमित शब्दों में आपका वर्णन करें तो करें। पर हम तो ऐसी कोई वस्तु नहीं जानते जो आप न हों।
पद 27
त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरा- नकाराद्यैर्वर्णैस्त्रिभिरभिदधत्तीर्णविकृति । तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदम् ॥ २७ ॥
हे शरणदाता, 'ॐ' के तीन अक्षर (अ, उ, म) तीन वेदों, तीन अवस्थाओं (जागना, सपना, गहरी नींद), तीन लोकों और तीन देवों को बताते हैं; और इसकी सूक्ष्म ध्वनि आपके परे वाले चौथे (तुरीय) धाम को। इस तरह ॐ आपको पूरे रूप में भी और अलग-अलग रूपों में भी पुकारता है।
पद 28
भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहां- स्तथा भीमेशानाविति यदभिधानाष्टकमिदम् । अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि प्रियायास्मै धाम्ने प्रणिहितनमस्योऽस्मि भवते ॥ २८ ॥
भव, शर्व, रुद्र, पशुपति, उग्र, महादेव, भीम और ईशान — आपके ये आठ नाम हैं, और वेद इनमें से हर एक का गुणगान करते हैं। हे देव, इन नामों के प्रिय धाम आपको मैं पूरे मन से नमस्कार करता हूँ।
पद 29
नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमो नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः । नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो नमः सर्वस्मै ते तदिदमिति सर्वाय च नमः ॥ २९ ॥
हे एकांत-प्रिय, सबसे निकट और सबसे दूर, आपको नमस्कार। हे कामारि, सबसे सूक्ष्म और सबसे महान, हे त्रिनेत्र, सबसे वृद्ध और सबसे युवा — आपको नमस्कार; जो सब कुछ हैं और सबसे परे भी हैं, आपको नमस्कार।
पद 30
बहलरजसे विश्वोत्पत्तौ भवाय नमो नमः प्रबलतमसे तत्संहारे हराय नमो नमः । जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ॥ ३० ॥
संसार की रचना के लिए रजोगुण से भरे 'भव' को नमस्कार; उसके संहार के लिए तमोगुण से भरे 'हर' को नमस्कार। लोगों को सुख देने के लिए सत्त्वगुण वाले 'मृड' को नमस्कार; और तीनों गुणों से परे तेजोमय 'शिव' को बार-बार नमस्कार।
पद 31
कृशपरिणति चेतः क्लेशवश्यं क्व चेदं क्व च तव गुणसीमोल्लङ्घिनी शश्वदृद्धिः । इति चकितममन्दीकृत्य मां भक्तिराधाद् वरद चरणयोस्ते वाक्यपुष्पोपहारम् ॥ ३१ ॥
कहाँ मेरा यह छोटा, दुखों के वश में रहने वाला मन, और कहाँ गुणों की हर सीमा लाँघने वाली आपकी शाश्वत महिमा! हे वरद, इस बात से मैं डरा हुआ था, पर भक्ति ने मुझे साहस दिया और मैंने शब्दों के ये फूल आपके चरणों में चढ़ा दिए।
पद 32
असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे सुरतरुवरशाखा लेखनी पत्रमुर्वी । लिखति यदि गृहीत्वा शारदा सर्वकालं तदपि तव गुणानामीश पारं न याति ॥ ३२ ॥
यदि काले पहाड़ जितनी स्याही हो, समुद्र दवात हो, कल्पवृक्ष की शाखा कलम हो और पूरी पृथ्वी कागज़ हो, और स्वयं सरस्वती सदा लिखती रहें — तब भी, हे ईश, आपके गुणों का अंत नहीं आएगा।
पद 33
असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौले- र्ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य । सकलगणवरिष्ठः पुष्पदन्ताभिधानो रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार ॥ ३३ ॥
असुर, देवता और मुनि जिनकी पूजा करते हैं, जिनके सिर पर चंद्रमा है, जो निर्गुण होकर भी गुणों की महिमा से भरे हैं — उन ईश्वर का यह सुंदर स्तोत्र गणों में श्रेष्ठ पुष्पदंत ने लंबे छंदों में रचा।
पद 34
अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत् पठति परमभक्त्या शुद्धचित्तः पुमान् यः । स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र प्रचुरतरधनायुः पुत्रवान् कीर्तिमांश्च ॥ ३४ ॥
(फलश्रुति) जो शुद्ध मन से, परम भक्ति के साथ प्रतिदिन जटाधारी शिव का यह निर्दोष स्तोत्र पढ़ता है, परंपरा कहती है कि वह शिवलोक में रुद्र जैसा सम्मान पाता है और इस लोक में भी समृद्धि, आयु, संतान और यश से युक्त होता है।
पद 35
महेशान्नापरो देवो महिम्नो नापरा स्तुतिः । अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् ॥ ३५ ॥
महेश से बड़ा कोई देवता नहीं, महिम्न से बढ़कर कोई स्तुति नहीं, अघोर से बड़ा कोई मंत्र नहीं और गुरु से ऊँचा कोई तत्त्व नहीं।
पद 36
दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः । महिम्नस्तवपाठस्य कलां नार्हन्ति षोडशीम् ॥ ३६ ॥
दीक्षा, दान, तप, तीर्थ, ज्ञान और यज्ञ आदि कर्म — परंपरा के अनुसार ये सब महिम्न स्तोत्र के पाठ के सोलहवें हिस्से के बराबर भी नहीं।
पद 37
कुसुमदशननामा सर्वगन्धर्वराजः शशिधरवरमौलेर्देवदेवस्य दासः । स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात् स्तवनमिदमकार्षीद्दिव्यदिव्यं महिम्नः ॥ ३७ ॥
कुसुमदशन (पुष्पदंत) नाम के गंधर्वराज, चंद्रशेखर देवाधिदेव शिव के सेवक थे। शिव के क्रोध से जब वे अपनी महिमा (शक्ति) खो बैठे, तब उन्होंने महिमा का यह अत्यंत दिव्य स्तोत्र रचा।
पद 38
सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं पठति यदि मनुष्यः प्राञ्जलिर्नान्यचेताः । व्रजति शिवसमीपं किन्नरैः स्तूयमानः स्तवनमिदममोघं पुष्पदन्तप्रणीतम् ॥ ३८ ॥
देवताओं और मुनियों द्वारा पूजित, पुष्पदंत रचित यह स्तोत्र कभी निष्फल नहीं होता। मान्यता है कि जो मनुष्य हाथ जोड़कर, एकाग्र मन से इसे पढ़ता है, वह किन्नरों से प्रशंसित होकर शिव के समीप पहुँचता है।
पद 39
आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्वभाषितम् । अनौपम्यं मनोहारि सर्वमीश्वरवर्णनम् ॥ ३९ ॥
गंधर्व द्वारा कहा गया यह पवित्र स्तोत्र यहाँ पूरा होता है; यह अनुपम, मन को मोहने वाला और पूरी तरह ईश्वर का वर्णन है।
पद 40
इत्येषा वाङ्मयी पूजा श्रीमच्छङ्करपादयोः । अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ॥ ४० ॥
शब्दों से की गई यह पूजा श्री शंकर के चरणों में अर्पित है; इससे देवों के स्वामी सदाशिव मुझ पर प्रसन्न हों।
पद 41
तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर । यादृशोऽसि महादेव तादृशाय नमो नमः ॥ ४१ ॥
हे महेश्वर, मैं आपका सच्चा स्वरूप नहीं जानता कि आप कैसे हैं। हे महादेव, आप जैसे भी हैं, उसी रूप को मेरा बार-बार नमस्कार।
पद 42
एककालं द्विकालं वा त्रिकालं यः पठेन्नरः । सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ ४२ ॥
जो व्यक्ति इसे दिन में एक, दो या तीन बार पढ़ता है, परंपरा के अनुसार वह सब पापों से मुक्त होकर शिवलोक में सम्मान पाता है।
पद 43
श्रीपुष्पदन्तमुखपङ्कजनिर्गतेन स्तोत्रेण किल्बिषहरेण हरप्रियेण । कण्ठस्थितेन पठितेन समाहितेन सुप्रीणितो भवति भूतपतिर्महेशः ॥ ४३ ॥
श्री पुष्पदंत के मुख-कमल से निकला, पापों को हरने वाला और शिव को प्रिय यह स्तोत्र जब कंठस्थ करके एकाग्र मन से पढ़ा जाता है, तो प्राणियों के स्वामी महेश बहुत प्रसन्न होते हैं।
अर्थ कथामंत्र टीम ने सरल भाषा में लिखे हैं।
इसके बाद पढ़ें
अक्सर पूछे जाने वाले प्रश्न
शिव महिम्न स्तोत्र किसने रचा?
परंपरा के अनुसार इसे गंधर्वराज पुष्पदंत ने रचा, जो भगवान शिव के भक्त और सेवक थे। स्तोत्र के अंतिम श्लोकों में भी उनका नाम आता है।
शिव महिम्न स्तोत्र का पाठ कब करें?
इसे रोज़ शिव-पूजा या अभिषेक के समय पढ़ा जा सकता है। सोमवार, प्रदोष, सावन का महीना और महाशिवरात्रि इसके लिए विशेष शुभ माने जाते हैं। स्तोत्र स्वयं दिन में एक, दो या तीन बार पाठ की बात कहता है।
इस स्तोत्र की मुख्य सीख क्या है?
स्तोत्र कहता है कि शिव की महिमा वाणी और मन से परे है, फिर भी भक्ति से की गई छोटी-सी स्तुति भी उन्हें स्वीकार है। सातवाँ श्लोक बताता है कि जैसे सब नदियाँ समुद्र में मिलती हैं, वैसे ही सब मार्ग एक ही ईश्वर तक पहुँचते हैं।